मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२४, ऋक् ७

संहिता

क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।
क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥

पदपाठः

क॒विः । क॒वि॒ऽत्वा । दि॒वि । रू॒पम् । आ । अ॒स॒ज॒त् । अप्र॑ऽभूती । वरु॑णः । निः । अ॒पः । सृ॒ज॒त् ।
क्षेम॑म् । कृ॒ण्वा॒नाः । जन॑यः । न । सिन्ध॑वः । ताः । अ॒स्य॒ । वर्ण॑म् । शुच॑यः । भ॒रि॒भ्र॒ति॒ ॥

सायणभाष्यम्

कविः क्रान्तदर्शी मित्रः कवित्वा कवित्वेन। सुपां सुलुगिति तृतीयाया आकारः। क्रान्तदर्शनेन दिवि द्युलोके रूपमात्मियं तेज आसजत्। आसक्तं करोति। षन्ज सङ्गे। अस्माल्लङि शपि दंशसञ्जष्वञ्जां शपि। पा. ६-४-२५। इति नलोपः। अप्रभूत्य प्रभूत्या। सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घः। अप्रभुष्णुनाल्पेनैव यत्नेन वरुणो मेघादपो निः सृजत्। निरगमयत्। वरुणेन विसृष्टास्ता आपह् सिन्धवः स्यन्दनशीला नद्यो भूत्वा जनयो न जाया इव यथा जायाः पत्युः क्षेमकारिण्यो भवन्ति तथा क्शेमं कुर्वाणा जगतो रक्षणं कुर्वाणाः शुचयः शुद्धा दीप्यमाना वास्य वरुणस्य वर्णं शुक्लं भास्वररूपं भरिभ्रति। भृशं बिभ्रति धारयन्ति। वाधर्त्यादिसूत्रे भरिभ्रदिति निपातनाद्बिभर्तेर्यङ्लुक्यभ्यासस्य जश्त्वाभावः॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०