मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२४, ऋक् ९

संहिता

बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् ।
अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥

पदपाठः

बी॒भ॒त्सूना॑म् । स॒ऽयुज॑म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना॑म् । स॒ख्ये । चर॑न्तम् ।
अ॒नु॒ऽस्तुभ॑म् । अनु॑ । च॒र्चू॒र्यमा॑णम् । इन्द्र॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । म॒नी॒षा ॥

सायणभाष्यम्

बीभत्सूनां कम्पमानावयवानां यद्वा मेघेन बद्धानाम् । हन्ति गच्छतीति हंसः सूर्यः। तं सयुजं सखायमाहुः। ब्रह्मवादिनः कथयन्ति। एतदेवाह। दिव्यानां दिवि भवानामान्तरिक्षाणामपां सख्ये सखित्वे चतन्तं वर्तमानम् । अनुष्टुभमनुष्तोभनीयं स्तोतव्यम् । यद्वा। अनुष्टुप्शब्देन तत्सम्बद्धो यागः स्तुतिर्वा लक्ष्यते। अनुष्टुप्सम्बद्धं यागमनुष्टुप्छन्दसा युक्तं स्तुतिविशेषं वा। अनुलक्ष्य चर्चूर्यमाणं पुनः पुनश्चरन्तं गच्छन्तम्। चरतेर्यङ्युत्परस्यातः। पा. ७-४-८८। इत्यभ्यासादुत्तरस्याकारस्योत्वम् । चरफलोश्च। पा. ७-४-८७। इति नुकि प्राप्ते व्यत्ययेनाभ्यासस्य रुगागमः। एवं गुणविशिष्टमिन्द्रं कवयः क्रान्तदर्शिन ऋषयो मनीषा मनीषया स्तुत्या नि चिक्युः। पूजयन्ति। यद्वा। मनीशा बुद्ध्या नि चिक्युः। जानन्ति। मनीषाशब्दात्त्तृतीयायाः सुपां सुलुगिति लुक्। चायृ पूजनिशामनयोरित्यस्माच्छान्दसे लिटि चायः की। पा. ६-१-३५। इति प्रकृतेः कीभावः। एरनेकाच इति यण्॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०