मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२५, ऋक् १

संहिता

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥

पदपाठः

अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः ।
अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥

सायणभाष्यम्

अहमित्यष्टर्चं त्रयोदशं सूक्तम्। अम्भृणस्य महर्षेर्दुहिता वाङ्नाम्नी ब्रह्मविदुषी स्वात्मानमस्तौत्। अतः सर्षिः। सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता। तेन ह्येशा तादात्म्यमनुभवन्ती सर्वजगद्रूपेण सर्वस्याधिष्ठानत्वेन चाहमेव सर्वं भवामीति स्वात्मानं स्तौति। द्वितीया जगती शिष्टाः सप्त त्रिष्टुभः। तथा चानुक्रान्तम्। अहमष्टौ वागांभृणी तुष्टावात्मानम् द्वितीया जगतीति। गतो विनियोगः॥

अहं सुक्तस्य द्रष्ट्री वागांभृणी यद्ब्रह्म जगत्कारणं तद्रूपा भवन्ती रुद्रेभी रुद्रैरेकादशभिः। इत्थंभावे तृतीया। तदात्मना चरामि। एवं वसुभिरित्यादौ तत्तदात्मना चरामीति योज्यम् । तथा मित्रावरुणा मित्रं च वरुणं च सुपां सुलुगिति द्वितीयाया आकारः। उभोभावहमेव ब्रह्मीभूता बिभ्रमि। धारयामि। इन्द्राग्नी अप्यहमेव धारयामि। उभोभावश्विनाश्विनावप्यहमेव धारयामि। मयि हि सर्वं जगच्छुक्तौ रजतमिवाध्यस्तं सद्दृश्यते। माया च जगदाकारेण विवर्तते। तादृश्या मायया आधारत्वेनासङ्गस्यापि ब्रह्मण उक्तस्य सर्वस्योत्पत्तिः॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११