मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२५, ऋक् २

संहिता

अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥

पदपाठः

अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् ।
अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥

सायणभाष्यम्

अहनसमाहन्तव्यमभिषोतव्यं सोमं यद्वा शत्रूणामाहन्तारं दिवि वर्तमानं देवतात्मानं सोममहमेव बिभर्मि। तथा तृष्टारमुतापि च पूषणं भगं चाहमेन बिभर्मि। तथा हविष्मते हविर्भिर्युक्ताय सुप्राव्ये शोभनं हविर्देवानां प्रापयित्रे तर्पयित्रे। अवतेस्तर्पणार्थादवितॄस्तृतन्त्रिभ्य ईः। उ. ३-१५८। इति कारप्रत्ययः। चरुर्थेकवचने यण्युदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति सुपः स्वरितत्वम्। सुन्वते सोमाभिषवं कुर्वते। शतुरनुम इति चतुर्थ्या उदात्तत्वम्। ईदृशाय यजमानाय द्रविणं धनं यागफलरूपमहमेव धारयामि। एतच्च ब्रह्मणः फलदातृत्वं फलमत उपपत्तेः। ३-२-३८। इत्यधिकरणे भगवता भाष्यकारेण समर्थितम्॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११