मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२५, ऋक् ३

संहिता

अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।
तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥

पदपाठः

अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् ।
ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥

सायणभाष्यम्

अहं राष्ट्री । ईश्वरनामैतत्। सर्वस्य जगत ईश्वरी। तथा वसूनां धनानां सङ्गमनी सङ्गमयित्र्युपासकानां प्रापयित्री। चिकितुषी यस्ताक्षात्कर्तव्यं परं ब्रह्म तञ्जातवती स्वात्मतया साक्षात्कृतवती। अत एव यज्ञियानां यज्ञार्हाणां प्रथमा मुख्या। यैवं गुणविशिष्टाहं तां मां भूरिस्थात्रां बहुभावेन प्रपञ्चात्मनावतिष्ठमानां भूरि भूरीणि बहूनि भूतजातान्यावेशयन्ती जीवभावेनात्मानं प्रवेशयन्तीं ईदृशीं मां पुरुत्रा बहुषु देशेषु व्यदधुः। देवा विदधति। कुर्वन्ति। उक्तप्रकारेण वैश्वरूप्येणावस्थानात्। यद्युत्कुर्वन्ति तत्सर्वं मामेव कुर्वन्तीत्यर्थः॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११