मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२५, ऋक् ५

संहिता

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥

पदपाठः

अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः ।
यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥

सायणभाष्यम्

अहं स्वयमेवेदं वस्तु ब्रह्मात्मकं वदामि। उपदिशामि। देवेभिर्देवैरीन्द्रादिभिरपि जुष्टं सेवितम् । उपाति च मानुषेभिर्मनुष्यैरपि जुष्टम्। ईदृग्वस्त्वात्मिकाहं कामये यं पुरुषं रक्षितुमहं वाञ्छामि तं तं पुरुषमुग्रं कृणोमि। सर्वेभ्योऽधिकं करोमि। तमेव ब्रह्माणं स्रष्टारं करोमि। तमेवर्षिमतीन्द्रियार्थदर्शिनं करोमि। तमेव सुमेधां शोभनप्रज्ञं च करोमि॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११