मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२६, ऋक् ३

संहिता

ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥

पदपाठः

ते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
नयि॑ष्ठाः । ऊं॒ इति॑ । नः॒ । ने॒षणि॑ । पर्षि॑ष्ठाः । ऊं॒ इति॑ । नः॒ । प॒र्षणि॑ । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

अयं वरुणो मित्रश्चार्यमा च देवा नोऽस्माकमूतये रक्षणाय नूनमवश्यं भवन्तु। नेषणि नेतव्ये विषये हे वरुणादयः यूयं नोऽस्मान्नयिष्ठाः। नयत। वचनव्यत्ययः। यद्वा। प्रत्येकाभिप्रायेणैकवचनम्। छान्दसो लुङ्। उशब्दः समुच्चये पदपूरणार्थो वा। पर्षणिः पारयितव्ये विषये नोऽस्मान्द्विषोऽति पर्षिष्ठाः। अतिपारयथ। नयिष्था इति वत्प्रक्रिया॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३