मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२७, ऋक् १

संहिता

रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभि॑ः ।
विश्वा॒ अधि॒ श्रियो॑ऽधित ॥

पदपाठः

रात्री॑ । वि । अ॒ख्य॒त् । आ॒ऽय॒ती । पु॒रु॒ऽत्रा । दे॒वी । अ॒क्षऽभिः॑ ।
विश्वाः॑ । अधि॑ । श्रियः॑ । अ॒धि॒त॒ ॥

सायणभाष्यम्

रात्रीत्यष्टर्चं पञ्चदशम् सूक्तं सोभरिपुत्रस्य कुशिकस्यार्षं। यद्वा। भारद्वाजस्य सुता तात्र्याख्यास्य सूक्तस्यर्षिका। गायत्रं रात्रिदेवताकम्। तथा चानुक्रान्तम्। रात्री कुशिकः सौभरो रात्रिर्वा भारद्वाजी रात्रिस्तवं गायत्रमिति। दुःस्वप्न दर्शन उपॊषितेन कत्र्त्रा पायसेन होतव्यम्। तत्रैतत्सूक्तं करणत्वेन विनियुक्तम्। तथा चारण्यके श्रूयते। स यद्येतेषां किञ्चित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्युचं हुत्वा। ऐ. आ. ३-२-४। इति॥

अयत्यागच्छन्ती। अङ्पूर्वादेतेः शतर्यदादित्वाच्छपो लुक्। इणो यण्णीति यणादेशः। उगितश्चेति ङीप्। शतरनुम इति नद्या उदात्तत्वम्। अक्शभिरक्षिस्थानीयैः प्रकाशमानैर्नक्षत्रैः। छन्दस्यपि दृश्यत इत्यक्षिशब्दस्यानङादेशः। यद्वा। अक्षभिरञ्जकैस्तेजोभिः। पुरुत्रा बहुषु देशेषु देवी देवनशीला। देवमनुष्यपुरुषपुरुमर्त्येभ्य इत्यादिना पुरुशब्दात्सप्तम्यर्थे त्राप्रत्ययः। रात्रीयं रात्रिदेवता व्यख्यत्। विचष्टे। विशेषेण पश्यति। रात्रेश्चाजसाविति ङीप्। ख्यातेश्छान्दसे लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः। अपि चैषा विश्वाः सर्वाः श्रियः शोभा अध्यधित। अधिधारयति। दधातेर्लुङि स्थाघ्वोरिच्चेतीत्वम्। सिचः कित्वम्। ह्रस्वादङ्गादिति सिचो लोपः॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४