मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२७, ऋक् ४

संहिता

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
वृ॒क्षे न व॑स॒तिं वयः॑ ॥

पदपाठः

सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि ।
वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥

सायणभाष्यम्

अद्यास्मिन्काले नोऽस्माकं सा रात्रिदेवता प्रसीदतु यस्या रत्रेर्यामन्यामनि प्ताप्तौ सत्यां वयं न्यविक्ष्महि निविशामहे सुखेन गृह आस्महे। निशेर्लङि नेर्विशः। पा. १-३-१७। इत्यात्मनेपदम्। छान्दसः शपो लुक्। तत्र दृष्टान्तः। वयः पक्शिणो व्रुक्षे न यथा वृक्षे नीडाश्रये वसतिं रातौ निवासं कुर्वन्ति तथा निवसाम इत्यर्थः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४