मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३२, ऋक् ४

संहिता

अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ ।
मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ॥

पदपाठः

अ॒सौ । अ॒न्यः । अ॒सु॒र॒ । सू॒य॒त॒ । द्यौः । त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ ।
मू॒र्धा । रथ॑स्य । चा॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥

सायणभाष्यम्

हे असुर तमसः क्षेपक। यद्वा। असवः प्रानाः। तान्ददाति मनुष्येभ्यः स्वोदयेन प्रयच्छतीत्यसुरः। ईदृश हे मित्र द्यौर्द्युलोको देवनशीलादितिर्वान्यः। सुपां सुलुगिति द्वितीयायाः स्वादेशः। वरुणापेक्षयान्यमसावसुम् नभसि दृश्यमानं त्वां सूयत। असूत। षूङ् प्राणिप्रसवे। छान्दसोऽडभावः। हे वरुन त्वं च विश्वेषां सर्वेषां प्राणिनां राजासि। ईश्वरो भवसि। तादृशयोर्युवयो रथस्य मूर्धा शिरश्चाकन्। अस्मद्यज्ञं कामयते। यद्वा। रथस्य रंहणशीलस्य यज्ञस्य मूर्धा न मूर्धेव प्रधानः सोमश्चाकन्। युवां कामयते। कन दीप्तिकान्तिगतिषु। अस्माद्यङ् लुगन्ताच्छादन्दसो लङ्। यत एवमतः कारणादन्तकध्रुगन्तकस्य हननशीलस्य राक्षसादेर्यमस्यैव वा द्रोग्धा। द्रुह जिघांसायाम्। सत्सूद्विषेत्यादिना क्विप्। वा द्रुहमुहष्णुहष्णिकाम्। पा. ८-७-३३। इति घत्वम्। भष्भावः। ईदृशः स यज्ञ एतावतैनसेयत्परिमाणेनापि पापलेशेनापि न युज्यते॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०