मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३३, ऋक् ७

संहिता

अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे ।
अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

पदपाठः

अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे ।
अच्छि॑द्रऽऊध्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥

सायणभाष्यम्

हे इन्द्र त्वं तां गामस्मभ्यं स्तोतृभ्यः सु शिक्ष। प्रदेहि। शिक्षतिर्दानकर्मा। या गौर्जरित्रे स्तोत्रे वरं वरनीयं पयः प्रति दोहते प्रतिदिनं नैरन्तर्येण दुग्धे। दुहेर्बहुलं छन्दसीति शपो लुगभावः। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम्। धातुस्वरः शिष्यते। वरम् । वृञ् वरण इत्यस्माद्ग्रहव्रुदृनिश्चिगमश्चेति कर्मण्यण्। सा प्रत्ता गौरच्छिद्रोध्नी निविडोधस्का अत एव सहस्रधारा बहुभिः क्षिरधारभिरुपेता मही महती सती यथा नोऽस्मान्पयसा क्षीरेण पीपयत् प्रवर्धयेत् तथा तां कुर्विति शेशः। ओप्यायी वृद्धौ। ण्यन्ताच्छान्दसो लुङ्। व्यत्ययेन धातोः पीभावः। अडभावश्छान्दसः॥७॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१