मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३४, ऋक् २

संहिता

अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् ।
अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

पदपाठः

अव॑ । स्म॒ । दुः॒ऽह॒ना॒य॒तः । मर्त॑स्य । त॒नु॒हि॒ । स्थि॒रम् ।
अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । यः । अ॒स्मान् । आ॒ऽदिदे॑शति । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

सायणभाष्यम्

दुर्हणायतो दुःखप्रदं हननमाचरतो मर्तस्य मनुष्यस्य शत्रोः स्थिरं दृढं बलमव तनुहि। अवततं नीचीनं कुरु। स्मेति पूरकः। तं शत्रुमीमेनमधस्पदं पादयोरधस्त्वाद्वर्तनमानं कृधि। कुरु। यः शत्रुरस्मानादिदेशति जुघांसति। समानमन्यत्॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२