मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३४, ऋक् ५

संहिता

अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ ।
दूर्वा॑या इव॒ तन्त॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

पदपाठः

अव॑ । स्वेदाः॑ऽइव । अ॒भितः॑ । विष्व॑क् । प॒त॒न्तु॒ । दि॒द्यवः॑ ।
दूर्वा॑याःऽइव । तन्त॑वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒ऽम॒तिः । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥

सायणभाष्यम्

स्वेदा इव गात्रात्स्वेदविन्दव इवाभितः सर्वतो दिद्यवो द्योतमानान्यायुधानीन्द्रस्य दीप्तयो वा विष्वग्नानामुखा अव पतन्तु। निपतन्तु। दूर्वाया इव तन्तवः। यथा दूर्वाकाण्डा बहुशः प्ररोहन्ति एवं बहुशो विस्तृता दृश्यन्ते। दुर्मतिर्दुष्टाभिसन्धिः शत्रुरस्मदस्मत्तो व्येतु। वियता गच्छतु। गतमन्यत्॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२