मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३५, ऋक् ३

संहिता

यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः ।
एके॑षं वि॒श्वत॒ः प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥

पदपाठः

यम् । कु॒मा॒र॒ । नव॑म् । रथ॑म् । अ॒च॒क्रम् । मन॑सा । अकृ॑णोः ।
एक॑ऽईषम् । वि॒श्वतः॑ । प्राञ्च॑म् । अप॑श्यन् । अधि॑ । ति॒ष्ठ॒सि॒ ॥

सायणभाष्यम्

नचिकेतः संज्ञं कुमारं यमोऽनयोत्तरया च प्रलोभयति। हे कुमार नवमभिनवमितः पूर्वमदृष्टम्न्। अभिनवत्वमेव व्यनक्ति। अचक्रं चक्ररहितं तमेकेषमेकेषा यस्य तादृशं तथापि विश्वतः सर्वतः प्राञ्चं प्रकर्षेणाञ्चन्तं गच्छन्तं यं रथं मनसाकृणोर्मत्समीपं प्रतिगमनायाध्यवसायात्मकमीदृशं यं रथमकरोः क्रुत्वा चापश्यन् कर्तव्या कर्तव्यविभागमजानन्निधि तिष्थसि। रथमारोहसि। यद्वा। स्तोतारं कुमाराख्यमृषिमादित्यः प्रत्यक्षः सन् देहात्मनोर्विवेकं बोधयति। हे कुमारर्षे चक्ररहितमेकेषम् । एकः प्राण ईषास्थानीयो यस्य। ईदृशमभिनवं सर्वतो गच्छन्तं शरीरात्मकं यं रथं मनसान्तःकरणेनाकृणोः अकरोः। सङ्कल्पात्मकेन मनसा हि कामो जायते। सत्यां हि कामनायां पुण्यापुण्यात्मकं कर्म क्रियते। तेन च भोगप्रदानायेदं शरीरमारभ्यत इति परम्परया मनसः शरीरनिष्पादकत्वम्। तं शरीरात्मकं रथमपश्यन्नजानन्। लक्षनहेत्वोः। पा. ३-२-१२६। इति हेतौ शतृप्रत्ययः। मत्स्वरूपापरिज्ञानाद्धेतोरधितिष्ठसि। भोगायतनत्वेन स्वीकरोषि॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३