मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३५, ऋक् ४

संहिता

यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ ।
तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ॥

पदपाठः

यम् । कु॒मा॒र॒ । प्र । अव॑र्तयः । रथ॑म् । विप्रे॑भ्यः । परि॑ ।
तम् । साम॑ । अनु॑ । प्र । अ॒व॒र्त॒त॒ । सम् । इ॒तः । ना॒वि । आऽहि॑तम् ॥

सायणभाष्यम्

हे कुमार नचिकेतः यं पूर्वोक्तमधिष्ठितं रथं प्रावर्तयः मत्समीपं प्रत्यगमयो विप्रेभ्यो मेधाविभ्यः पर्युपरि भूलोके वर्तमानानां मेधाविनां बान्धवानामुपरिष्टात्। अन्तरिक्ष इत्यर्थः। पञ्चम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वम्। तं रथं साम पित्रा कृतं सान्त्वनं यमसमीपं गत्वैवमेव त्वया वक्तव्यमिति प्रत्यागमनकारणमुउपायोपदेशनमनु प्रावर्तत। इतोऽस्माल्लोकादन्वगच्छत्। कथं भूतम्। नावि नौवत्तरणसाधनायां बुद्धौ समाहितं सम्यग्द्धृतम्। यद्वा। हे कुमारर्षे यं शरीरात्मकं रथमधिष्ठितं प्रावर्तयः संसारे प्रवर्तितवानसि मेधाविनां मध्ये तं रथमनु साम। उपलक्षणमेतत्। ऋक्सामादिसाध्यं स्तोत्रं नावि नौवत्तारयित्र्यां वाचि वेदात्मिकायां समाहितं सम्यक्प्रतिपाद्यत्वेन हितं कर्म चेतोऽस्माल्लोकात्प्रावर्तत। प्रव्रुत्तमभूत्। इत्थमात्मस्वरूपापरिज्ञानेन शरीरबन्धनं तेन कर्तव्यं व्यवहारजातं चोक्तम्। अथ तु सत्यज्ञानादि स्वरूपमकर्तारं परमात्मानं यदि स्वात्मतया साक्षात्करोति तदोक्तं न सम्भवतीत्यभिप्रायः॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३