मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३५, ऋक् ५

संहिता

कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् ।
कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥

पदपाठः

कः । कु॒मा॒रम् । अ॒ज॒न॒य॒त् । रथ॑म् । कः । निः । अ॒व॒र्त॒य॒त् ।
कः । स्वि॒त् । तत् । अ॒द्य । नः॒ । ब्रू॒या॒त् । अ॒नु॒ऽदेयी॑ । यथा॑ । अभ॑वत् ॥

सायणभाष्यम्

कः पुरुष इमं कुमारमजनयत्। अधिक्षेपे किंशब्दः। ईदृशं बालं यमसमीपं प्रहिण्वन् कथं पिता समीचीनः स्यात्। तत्तावदास्ताम्। को वा पुरुषोऽस्य बालस्य यमसमईपं प्रतिगमनाय तं रथंनिरवर्तयत्। निर्वर्तितवान्। सोऽपि मूर्ख इत्यर्थः। यथा येन प्रकारेणायां कुमारोऽनुदेय्यनुदातव्योऽभवत् भवति तत्तदनुगुणम् वचनमुपायकथनमद्यास्मिन्काले नोऽस्माकं कः स्वित् को नाम ब्रूयात्। अभिदध्यात्। प्रथमं यमसमीपं गत्वा पश्चात्ततो निर्गमनोपायं ब्रुवन्नपि न प्राज्ञ इत्यर्थः। अथवा। कुमाराख्य ऋषिरात्मनः सर्वात्म्यमवगच्छन् स्वव्यतिरिक्तस्यान्यस्यासम्भवं किं शब्देनाक्षेपवाचिना दर्शयति। कुमारं मां कः पिताजनयत्। न कोऽपि। अजो नित्यः शाश्वतः । क. उ. २-१८। इति श्रुत्युक्तरूपोऽहं भवामि। कश्च शरीरात्मकं रथं निरवर्तयत्। निर्वर्तयति। मद्व्यतिरिक्तस्य निर्वर्तयितुरभावात् तथा निर्वर्त्यस्यान्यस्यासम्भवाच्च। अद्यास्मिन्काले सर्वात्म्यानुभवदशायां तं तं प्रकारं कः स्वित्को नाम नोऽस्माकं ब्रूयात् यथा येन प्रकारेनानुदेय्यनुदातव्या मद्व्यतिरिक्तान्यपदार्थसत्ताभवत् भवति। स प्रकारोऽपि दुर्वचन इत्यर्थः॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३