मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३५, ऋक् ७

संहिता

इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ ।
इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥

पदपाठः

इ॒दम् । य॒मस्य॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒च्यते॑ ।
इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒ऽभिः । परि॑ऽकृतः ॥

सायणभाष्यम्

इदं यमस्य नियन्तुरादित्यस्य वैवस्वतस्य वा सदनं स्थानम् । छान्दसः सांहितिकोदीर्घः। यत्सदनं देवमानं देवैर्निर्मितमित्युच्यते सर्वत्राभिधीयते। यद्वा। देवानां रश्मीनां निर्माणसाधनमिति गीयते। अस्य यमस्य प्रीणनायेयं नाळीर्वाद्यविशेषो वेणुर्धम्यते। वाद्यते। यद्वा। नाळीति वाङ्नाम। इयं स्तुतिरूपा वागस्य प्रीणनाय धम्यते। उच्चार्यते। एवं सत्ययं यमो गीर्भिः स्तुतिभिः परिष्कृतः। आलङ्क्रुतोऽभूत्। सम्पर्युपेभ्य इति सुडागमः। परिनिविभ्य इति षत्वम्। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्॥७॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३