मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३६, ऋक् १

संहिता

के॒श्य१॒॑ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी ।
के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥

पदपाठः

के॒शी । अ॒ग्निम् । के॒शी । वि॒षम् । के॒शी । बि॒भ॒र्ति॒ । रोद॑सी॒ इति॑ ।
के॒शी । विश्व॑म् । स्वः॑ । दृ॒शे । के॒शी । इ॒दम् । ज्योतिः॑ । उ॒च्य॒ते॒ ॥

सायणभाष्यम्

केशीति सप्तर्चमष्टमं सूक्तमग्निसूर्यवायुदेवताकम्। वातरशनपुताजूतिवातजूतिप्रभृतयः प्रत्युचं क्रमेणर्षयः। तथा चानुक्रान्तम्। केशी मुनयो वातरशना जूतिर्वातजूतिर्विप्रजूतिर्वृषाणकः करिक्रत एतश ऋष्यशृङ्गश्चैकर्चाह् कैशिनमिति। गतो विनियोगः॥

केशाः केशस्थानीया रश्मयः। तद्वन्तः केशिनोऽग्निर्वायुः सूर्यश्च। एते त्रयः स्तूयन्ते। केशी रश्मिभिर्युक्तः प्रकाशमानो वा सूर्योऽग्निं बिभर्ति। हविर्भिः पोषयति। धारयति वा। कालविशेषे ह्यग्नेः पोषणाय होमः। स च कालविशेशः सूर्यगत्यधिन इति सूर्य एव बिभर्तीत्युच्यते। तथा विषम्। उदकानामैतत्। उदकं रश्मिभिर्घर्मसमय आहृतमयमेव केशी बिभर्ति विस्रष्टुम्। तथा रोदसी द्यावापृथिव्यावप्ययमेव बिभर्ति। अपि च विश्वं व्याप्तम् स्वः सर्वं जगद्दृशे दर्शनायायमेव केशी करोति। प्रकाशयतीत्यर्थः। इत्थं महानुभावः केशी को नामेत्यत आह। इदं दृश्यमानं मण्डलस्थं यज्ज्योतिरिदमेव केशीत्युच्यते। नान्य इत्यर्थः॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४