मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ ।
वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥
मुन॑यः । वात॑ऽरशनाः । पि॒शङ्गा॑ । व॒स॒ते॒ । मला॑ ।
वात॑स्य । अनु॑ । ध्राजि॑म् । य॒न्ति॒ । यत् । दे॒वासः॑ । अवि॑क्षत ॥
वातरशना वातरशनस्य पुत्रा मुनयोऽतीन्द्रियार्थदर्शिनो जूतिवातजूतिप्रभृतयः पिशङ्गा पिशङ्गानि कपिलवर्नानि मला मलिनानि वल्कलरूपाणि वासांसि वसते। आच्छादयन्ति। वस आच्छादने आदादिकः। ईदृशास्ते यद्यदा देवासो देवास्तपसो महिम्ना दीप्यमानाः सन्तोऽविक्षत देवतास्वरूपं प्राविशन्। विशेर्लुङि शल इगुपधादनिटः क्सः। व्यत्ययेनात्मनेपदम्। तदा ते वातस्य वायोर्ध्राजिं गतिमनुयन्ति। अनुगच्छन्ति। प्राणोपासनया प्रानरूपिणो वायुभावं प्रपन्ना इत्यर्थः॥२॥