मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३६, ऋक् ३

संहिता

उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् ।
शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥

पदपाठः

उत्ऽम॑दिताः । मौने॑येन । वाता॑न् । आ । त॒स्थि॒म॒ । व॒यम् ।
शरी॑रा । इत् । अ॒स्माक॑म् । यू॒यम् । मर्ता॑सः । अ॒भि । प॒श्य॒थ॒ ॥

सायणभाष्यम्

मौनेयेन मुनिभावेन लौकिकसर्वव्यवहारविसर्जनेनोन्मदिता उन्मत्ता उन्मत्तवदाचरन्तः। यद्वा। उत्कृष्टं मदं हर्षं प्राप्ताः। वयं वातन्वायूनस्माभिरुपास्यमानाना तस्थिम। आस्थितवन्तः। हे मर्तासो मनुष्याः अस्माकं शरीरेच्छरीराण्येव यूयं केवलमभि पश्यथ। नास्मान्। यतो वयं नीरूपेण वायुना सायुज्यं प्राप्ताः॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४