मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३६, ऋक् ४

संहिता

अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ रू॒पाव॒चाक॑शत् ।
मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥

पदपाठः

अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑ । रू॒पा । अ॒व॒ऽचाक॑शत् ।
मुनिः॑ । दे॒वस्य॑ऽदेवस्य । सौकृ॑त्याय । सखा॑ । हि॒तः ॥

सायणभाष्यम्

मुनिरस्यर्चो द्रष्टावृषाणक ऋषिर्वातरूपताम् सूर्यात्मतां वा तत्तदुपासनया प्राप्तः सन्नन्तरिक्षेणाकाशेन पतति। गच्छति। किं कुर्वन्। विश्वा विश्वानि सर्वानि रूपाणि रूप्यमाणानि पदार्थजातान्य वचाकशदभिपश्यन् स्वतेजसा दर्शयन्। तथा देवस्य देवस्य। नित्यवीप्सयोरिति द्विर्वचनम्। अनुदात्त चेति परस्याम्रेडितस्यानुदात्तत्वम्। सर्वस्यापि देवस्य सखा सखिभूतः अत एव सौकृत्याय। सुष्ठु देवानुद्दिश्य क्रियमाणं यागात्मकं कर्म सुकृतम्। तस्य भावाय सम्यगनुष्थापनाय हितः। सहितः स्थापितो भवति॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४