मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३६, ऋक् ५

संहिता

वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनि॑ः ।
उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥

पदपाठः

वात॑स्य । अश्वः॑ । वा॒योः । सखा॑ । अथो॒ इति॑ । दे॒वऽइ॑षितः । मुनिः॑ ।
उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः॑ । उ॒त । अप॑रः ॥

सायणभाष्यम्

वातस्य वयोर्गतिरिवाश्वो व्याप्तः। यद्वा। वायोरशिता भोक्ता। वायुरेव तस्याहार इत्यर्थः। अत एव वायोः सखा मित्रभूतः अथो अपि च देवेषितो देवेन द्योतमानेन वायुना सूर्येण वेशितः प्राप्तः। तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम्। ईदृशो मुनिः करिक्रताख्य ऋषिरुक्तप्रकारेण वायुरूपः सूर्यरूपो वा सन्नुभौ समुद्रावुदधी आ क्षेति। अभिगच्छति। क्षि निवासगत्योः। छान्दसो विकरनस्य लुक्। कौ तौ समुद्रा। यश्च पुर्वः समुद्रः। उतशब्दश्चार्थे। यश्चापरः समुद्रः॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४