मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३६, ऋक् ६

संहिता

अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् ।
के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥

पदपाठः

अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् ।
के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥

सायणभाष्यम्

अप्सरसाम् देवस्त्रीणां गन्धर्वाणाम् चरने सञ्चारभुते दिव्यन्तरिक्षे च तथा मृगानाम् सिंहादीनां सञ्चारस्थले पृथिव्यां चरन् व्याप्य सञ्चरन्केश्यग्निर्वायुह् सूर्यो वा केतस्य ज्ञातव्यस्य सर्वस्यार्थजातस्य विद्वान् यद्वा ज्ञातव्यस्यास्यर्षेरेतशस्य सखा विद्वानविशेषात्सर्वम् जानन् स्वादुः स्वादयिता रसयिता सर्वस्य रसस्योत्पादकः अत एव मदिन्तमो मादयितृतमो भवति। नाद्घस्येति नुडागमः॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४