मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३६, ऋक् ७

संहिता

वा॒युर॑स्मा॒ उपा॑मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा ।
के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥

पदपाठः

वा॒युः । अ॒स्मै॒ । उप॑ । अ॒म॒न्थ॒त् । पि॒नष्टि॑ । स्म॒ । कु॒न॒न्न॒मा ।
के॒शी । वि॒षस्य॑ । पात्रे॑ण । यत् । रु॒द्रेण॑ । अपि॑बत् । स॒ह ॥

सायणभाष्यम्

केशी रश्मिभिर्युक्तः सुर्यो रुद्रेण रुद्रपुत्रेण मरुद्गनेन। यद्वा। रुद्रो वा एष यदग्निः। तै. सं. ५-४-३-१। इति श्रवनाद्रुद्रो वैद्युताग्निः। तेन सह वर्तमानो विषस्य। उदकनामैतत्। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थ्ये षष्थी। विषमुदकं पात्रेण पानसाधनेन रश्मिजालेन यद्यदापिबत् पिबति तदास्मै केशिने वायुरूपामन्थत्। भूतगं सर्वं रसमुपमथ्नाति। यद्वा। यदापिबत् पितवान्भवति तदा सूर्यमण्डले घनीभूतमस्य तदुदकं वायुरुपमथ्नाति। मन्थनेन वैद्युताग्निनालोडयति। तथा कुनन्नमा कुत्सितमपि भृशं नमयित्री स्वयं नमयितुमशक्या स्वतन्त्रा माध्यमिका वाक् पिनष्ति स्म। यथाधस्तात्स्रवति तथा चूर्णीकरोति। स्मेति प्रसिद्धौ। कुपुर्वान्नमयतेः। पचाद्यचि यङोऽचि चेति यङो लुक्। थाथादिनोत्तरपदान्तोदात्तत्वम्॥७॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४