मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३७, ऋक् ५

संहिता

त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः ।
त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥

पदपाठः

त्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः ।
त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥

सायणभाष्यम्

इहास्मिन्देशे सर्वे देवास्त्रायन्ताम्। अस्मान्पालयन्ताम्। तथा मरुतां गणः सङ्घः स त्रायताम्। विश्वानि सर्वान्यन्यानि च भुतानि भूतजातानि त्रायन्ताम्। अस्मान्रक्षन्तु। यथायमस्मदीयः शरीरादिररपा असत् पापरहितो भवति तथेत्यर्थः। रप इति पापनाम। नञा बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम्। अस्तेर्लेट्यडागमः। यावद्यथाभ्याम्। पा. ८-१-३६। इति निघाताभावः॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५