मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३८, ऋक् ४

संहिता

अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्य॑ः ।
मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥

पदपाठः

अना॑धृष्टानि । धृ॒षि॒तः । वि । आ॒स्य॒त् । नि॒ऽधीन् । अदे॑वान् । अ॒मृ॒ण॒त् । अ॒यास्यः॑ ।
मा॒साऽइ॑व । सूर्यः॑ । वसु॑ । पुर्य॑म् । आ । द॒दे॒ । गृ॒णा॒नः । शत्रू॑न् । अ॒शृ॒णा॒त् । वि॒रुक्म॑ता ॥

सायणभाष्यम्

धृषितः शत्रूणाम् धर्षयिता प्रगल्भ इन्द्रोऽनाधृष्टानीतः पूर्वं शत्रुभिरप्रधृष्टान्यबाधितान्यसुरबलानि व्यास्यत्। व्याक्षिप्तवान्। तथायास्योऽयासनीयश्चालयितुमशक्यः। यद्वा। अयास्योऽङ्गिराः। स्तोतृवाचिना शब्देन स्तुत्यो लक्ष्यते। अयास्येनर्षिणा स्तुत्य इन्द्रो निधीनसुरैर्निहितान्धनसमूहान् यद्वा निधातॄन्नितरां बलानां धारयितॄनदेन्देवविरोधिनोऽसुरानमृणत्। अहिंसीत्। मृण हिंसायाम् । तौदादिकः। अपि च सूर्यो मासेव मासेनेव। पव्दन्नित्यादिना मासशब्दस्य मास्भावः। स यथा मासविशेषेण भ्ॐआन्रसानादत्ते तथा पुर्यमसुरानां पुरि भवम्। भवे छन्दसिति यत्। हलि चेति दीर्घस्य न भकुर्छुराम्। पा. ८-२-७९। इति प्रतिषेधः। यतोऽनाव इत्याद्युदात्तत्वम्। ईदृशं वसु धनमाददे। आदत्ते स्म। आङो दोऽनास्यविहरण इत्यात्मनेपदम्। तथा गृणानः स्तोतृभिः स्तूयमानः सन्। व्यत्ययेन कर्मणि कर्तृप्रत्ययः। शत्रूञ्शातयितॄनसुरान्विरुक्मता विरोचनमानेन वज्रेनाशृणात्। अहिंसीत्॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६