मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३९, ऋक् ४

संहिता

वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् ।
तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥

पदपाठः

वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् ।
तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥

सायणभाष्यम्

हे सोम त्वया सहितं गन्धर्वं गीतरूपां गां शब्दं धारयन्तं विश्वावसुमेतत्संज्ञं माम् । उत्तरत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहरः। यदापो वसतीवर्याख्या ददृशुषीर्दृष्टवत्यः। दृशेर्लिटः क्वसुः। उगितश्चेति ङीप्। वसोः सम्प्रसारणमिति सम्प्रसारणम्। जसि वा छन्दसीति पूर्वसवर्णदीर्घः। तत्तदानीमृतेन ररहाणो गमयितेन्द्रोऽन्ववैत्। अस्वबुध्यत। बुद्ध्वा च कुत्र यज्ञः प्रवृत्त इति सूर्यस्य परिधीन्परितो धीयमानान्प्राच्यादिदिग्विभागान्पर्यपश्यत्। परितो दृष्टवान्॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७