मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४०, ऋक् १

संहिता

अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो ।
बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥

पदपाठः

अग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।
बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा । वाज॑म् । उ॒क्थ्य॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ॥

सायणभाष्यम्

अग्ने तवेति षडृचं द्वादशं सूक्तम्। पावकगुणविशिष्टोऽग्निरृषिः। शुद्धाग्निर्देवता। आद्या विष्वारपङ्क्तिरष्टकद्विद्वादशाष्टकवती। अथ तिस्रः सतोब्रुहत्योऽयुजौ जागतौ। अनु ८-४। इति लक्षणोपेताः। पञ्चम्युपरिष्टाज्ज्योतिः। षष्ठी त्रिष्टुप्। तथा चानुक्रान्तम्। अग्नेतवाग्निः पावक अग्नेयं विष्टारपङ्क्तिस्तिस्रः सतोबृहत्य उपरिष्टाज्ज्योतिरिति। महाव्रत अग्निमारुतशस्त्र इदं सूक्तं स्तोत्रियानुरूपार्थम्। तथैव पञ्चमारण्यके सूत्रितम्॥ ऐ. आ. ५-३-२॥

हे अग्ने तव वयोऽन्नं श्रवह् श्रवणीयं प्रशस्यम्। हविरात्मकस्य तस्य मन्त्रसंस्कृतत्वेन प्रशस्तत्वात्। अन्नेषु मध्ये तवैवान्नं श्रेष्ठमित्यर्थः। हे विभावसो। विशिष्टा दीप्तिर्विभा। सैव वसुर्धनं यस्य तादृशाग्ने आर्चयो दीप्तयो महि महद्बहुलं भ्राजन्ते। दीप्यन्ते। भाजृ दीप्तौ। अनुदात्तेत्। भौवादिकः। हे बुहद्भानो प्रौढदीप्ते कवे क्रान्तदर्शिन्नग्ने एवं महानुभावस्त्वं शवसा बलेनोपेतमुक्थ्यं प्रशस्यम् । यद्वा। उक्थ्यो यज्ञह्। तद्योग्यं वाजमन्नं दाशुषे हवींषि दत्तवते यजमानाय दधासि। ददासि। प्रयच्छसि॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८