मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४०, ऋक् २

संहिता

पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।
पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥

पदपाठः

पा॒व॒कऽव॑र्चाः । शु॒क्रऽव॑र्चाः । अनू॑नऽवर्चाः । उत् । इ॒य॒र्षि॒ । भा॒नुना॑ ।
पु॒त्रः । मा॒तरा॑ । वि॒ऽचर॑न् । उप॑ । अ॒व॒सि॒ । पृ॒णक्षि॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

सायणभाष्यम्

पावकवर्चाः शोधकदीप्तिः शुक्रवर्चा निर्मलतेजस्कोऽनूनवर्चाः सम्पूर्णतेजस्कः। हे अग्ने ईदृशस्त्वं भानुना तेजसोदियर्षि। उद्गच्छसि। ऋ सृ गतौ जौहोत्यादिकः। अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम्। स त्वं पुत्रः सन् मातरा मातृभूते अरण्यौ विचरन् यागावसाने विशेषेण पाप्नुवन्नुपावसि। उपगतान्यजमानान्रक्षसि। तथोभे रोदसी द्यावापृथिव्यौ पृणक्षि। संयोजयसि। हविषा द्युलोकं वृष्ट्यमं लोकं च पूरयसीत्यर्थः। पृची सम्पर्के। रौधादिकः॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८