मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४०, ऋक् ३

संहिता

ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः ।
त्वे इष॒ः सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥

पदपाठः

ऊर्जः॑ । न॒पा॒त् । जा॒त॒ऽवे॒दः॒ । सु॒श॒स्तिऽभिः॑ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः ।
त्वे इति॑ । इषः॑ । सम् । द॒धुः॒ । भूरि॑ऽवर्पसः । चि॒त्रऽऊ॑तयः । वा॒मऽजा॑ताः ॥

सायणभाष्यम्

हे ऊर्जो नपादूर्जोऽन्नस्य पार्थिवस्यारण्यादेः पुत्र हे जातवेदो जातानां वेदितरग्ने सुशस्तिभिरस्माभिः क्रियमाणैर्मन्दस्व। मोदस्व। तथा धीतिभिः कर्मभिरस्माभिः क्रियमाणैरग्निहोत्रादिभिः कर्मभिर्हितः सुहितस्तृप्तो भव। अपि च भूरिपर्वसः। वर्प इति रूपनाम। बहुविधरूपाश्चित्रोतयः चित्रा विचित्रोतिस्तृप्तिर्यासां तास्तथोक्ता वामजाताः वामं वननीयं जातं जन्म यासां तादृशीरिषोऽन्नानि हविर्लक्षणानि त्वे त्वय्येव सं दधुः। सन्दधति। सम्यग्जुह्वति यजमानाः। यद्वा। भुरिपर्वस इत्यादिकम् कर्तृविशेषणम्। तदानीं चित्रोतय इत्यस्य विचित्ररक्षा इति योज्यम्॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८