मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४०, ऋक् ५

संहिता

इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तं॒ राध॑सो म॒हः ।
रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिम् ॥

पदपाठः

इ॒ष्क॒र्तार॑म् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । क्षय॑न्तम् । राध॑सः । म॒हः ।
रा॒तिम् । वा॒मस्य॑ । सु॒ऽभगा॑म् । म॒हीम् । इष॑म् । दधा॑सि । सा॒न॒सिम् । र॒यिम् ॥

सायणभाष्यम्

इष्कर्तारं निष्कर्तारम्। छान्दसो वर्णलोपः। अध्वरस्य यज्ञस्य निष्कर्तारं संस्कर्तारं प्रचेतसं प्रकृष्टज्ञानं महोमहतो राधसो धनस्य क्षयंतमीश्वरम्। क्षयतिरैश्वर्यकर्मा। वामस्य वननीयस्य धनस्य रातिं दातारम्। रातेः कर्तरि क्तिच्। ईदृशं त्वां स्तुम इति शेशः। स त्वं सुभगां सौभाग्योपेतां महीं महतीमिषमन्नं सानसिं सम्भक्तव्यं रयिं धनं च दधासि। स्तोतृभ्यो ददासि॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८