अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ्न॑ः सु॒मना॑ भव ।
प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम् ॥
अग्ने॑ । अच्छ॑ । व॒द॒ । इ॒ह । नः॒ । प्र॒त्यङ् । नः॒ । सु॒ऽमनाः॑ । भ॒व॒ ।
प्र । नः॒ । य॒च्छ॒ । वि॒शः॒ । प॒ते॒ । ध॒न॒ऽदाः । अ॒सि॒ । नः॒ । त्वम् ॥
अग्न इति षडृचं त्रयोदशं सूक्तम्। तापसगुनविशिष्टस्याग्नेरार्षं वैश्वदेवमानुष्टुभम्। तथा चानुक्रान्तम्। अग्नेऽच्छाग्निस्तापसो वैश्वदेवमानुष्टुभं हीति। गतो विनियोगः॥
हे अग्ने इहास्मिन्देशे नोऽस्मानच्छ वद। आभिमुख्येन प्रियं ब्रूहि। तथा प्रत्यङ्नोऽस्मान्प्रत्यञ्चन् सुमनाः शोभनमनस्को भव। हे विशस्पते यजमानलक्षणायाः प्रजायाः पालयितः नोऽस्मभ्यं प्र यच्छ धनानि प्रदेहि यतस्त्वं नोऽस्माकं धनदा असि धनानां दाता भवसि॥१॥