मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४१, ऋक् ५

संहिता

अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।
वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म् ॥

पदपाठः

अ॒र्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । चो॒द॒य॒ ।
वात॑म् । विष्णु॑म् । सर॑स्वतीम् । स॒वि॒तार॑म् । च॒ । वा॒जिन॑म् ॥

सायणभाष्यम्

हे स्तोतः अर्यमादीन्देवान्दानाय धनप्रदानाय चोदय। स्तुत्या प्रेरय। तथा वातं वायुं विष्णुं सरस्वतीं वाजिनमन्नवन्तं बलवन्तं वा सवितारं च दानाय प्रेरय॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९