मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४२, ऋक् १

संहिता

अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् ।
भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥

पदपाठः

अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् ।
भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥

सायणभाष्यम्

अयमग्न इत्यष्टर्चं चतुर्दशं सूक्तमाग्नेयम्। शार्ङ्ग इति पक्शिविशेशस्याख्या। शार्ङ्गजातयो जरितृप्रभृतयश्चत्वारश्चतुर्णां द्वृचानां क्रमेण द्रष्टारः। अदितो द्वे जगत्यौ। अथ चतस्रस्त्रिष्टुभः। ततो द्वे अनुष्टुभौ। तथा चानुक्रान्तम्। अयमष्टौ द्वृचाः शार्ङ्गा जरिता द्रोणः सारिसृक्वः स्तम्बमित्रश्चाग्नेयमाद्ये जगत्यौ चतस्रश्च त्रिष्टुभ इति। गतो विनियोगः॥

हे अग्ने त्वे त्वयि। सुपां सुलुगिति सप्तम्याः शे आदेशः। अयमृषिर्जरिता स्तोताभूदपि। अपिशब्दः सम्भावनायां। इदानीं स्तोतृत्वेन सम्भाव्यते। तत्र कारनमाह। हे सहसः सूनो बलस्य पुत्र त्वत्तोऽन्यदाप्यमाप्तव्यं न ह्यस्ति। न खलु विद्यते। अतः प्राप्तव्यं त्वामेव स्तुत्या प्राप्नोमि। भद्रं कल्याणं त्रिवरूथं दुःखत्रयस्य निवारकम् शर्म सुखं हि यस्मात्ते तवास्ति विद्यते। अथवा शोभनं त्रिवरूथं त्रिभूमिकं गृहम् तवास्ति हि। अतो हिंसानां हिंस्यमानानाममस्माकमारे दूरे दिद्युं दीप्यमानामात्मीयां ज्वालामपा कृधि। अपाकुरु। निवारय। करोतेश्चान्दसो विकरनस्य लुक्। श्रुशृणुषॄकृव्रुभ्य इति हेर्धिभावः॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०