मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४२, ऋक् ५

संहिता

प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः ।
बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि॑म् ॥

पदपाठः

प्रति॑ । अ॒स्य॒ । श्रेण॑यः । द॒दृ॒श्रे॒ । एक॑म् । नि॒ऽयान॑म् । ब॒हवः॑ । रथा॑सः ।
बा॒हू इति॑ । यत् । अ॒ग्ने॒ । अ॒नु॒ऽमर्मृ॑जानः । न्य॑ङ् । उ॒त्ता॒नाम् । अ॒नु॒ऽएषि॑ । भूमि॑म् ॥

सायणभाष्यम्

अस्याग्नेर्दहतः श्रेणयो ज्वालापङ्क्तयः प्रति ददृश्रे। प्रतिदृश्यन्ते। .............. । तद्वत्। अत्र सामर्थ्यादुपमानप्रतितिः। हे अग्ने बाहू। तृतीयार्थे प्रथमा। बाहुभ्यां बाहुस्थानीयैर्ज्वालासमूहैरनुमर्मृजानः सर्वं वनं मृजञ्शोधयन्। दहन्नित्यर्थः। नय्ङ् न्यञ्चन् प्रह्वीभवन्नुत्तानामूर्ध्वाभिमुखां भूमिं यद्यदान्वेषि अनुगच्छसि तदानीमस्य श्रेणयो ददृश्र इत्यन्वयः॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०