मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४२, ऋक् ७

संहिता

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् ।
अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥

पदपाठः

अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् ।
अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था॑म् । तेन॑ । या॒हि॒ । वशा॑न् । अनु॑ ॥

सायणभाष्यम्

इत्थं खाण्डववनस्य दाहे प्रवृत्तमग्निं जरित्रुप्रभृतयः स्वात्मनो रक्षणकामास्तुष्टुवुः। इदानीं च स्तम्बमित्रः स्वनिवासभूमेर्दहनाभावायाग्नेरन्यत्र गमनं प्रार्थयते। इदमस्मदीयं निवासस्थानमपामुदकानां न्ययनम्। नियन्ति नितराम् गच्छन्त्यस्मिन्निति न्ययनं ह्रदः। तथा समुद्रस्योदधेश्च निवेशनं ग्रुहम्। यथा ह्रदः समुद्रस्य स्थानं च यथा दुग्धुं न शक्यते तथा दाहयोग्यं न भवत्वित्यर्थः। इतोऽस्मादस्मदीयात्स्थानादन्यं पन्थां पन्थानं मार्गं हे अग्ने कृणुष्व। कुरुष्व। तेन पथा वशाननु यथाकामं याहि। गच्छ॥७॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०