अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते ।
दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥
अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते ।
दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥
अयं हीति षडृचं षोडशं सूक्तं तार्क्ष्य पुत्रस्य सुपर्णस्यार्षम् यमगोत्रस्योर्ध्वकृशनस्य व आद्या गायत्री द्वितीया बृहती तृतीयाचतुर्थौ गायत्र्यौ पञ्चमी सतोबृहती षष्ठी विष्टारपङ्क्तिरष्टकद्विर्द्वादशाष्टकवती। अनादेशपरिभाषयेन्द्रो देवता। तथा चानुक्रान्तम्। अयं हि तार्क्ष्य पुत्रः सुपर्णो यामायनो वोर्ध्वकृशनो गायत्री बृहती गायत्र्यौ सतोब्रुहती विष्टारपङ्क्तिरिति। गतो विनियोगः॥
हे इन्द्र वेधसे विधात्रे ते तुभ्यं त्वदर्थममर्त्यो मरणरहितोऽमृतत्वप्रापकोऽयं ह्ययं खल्विन्दुः सोमोऽत्यो न सततगाम्यश्व इव पत्यते। गच्छति। यद्वा। पत्यतिरैश्वर्यकर्मा। तव स्वभुतोऽयं सोमो वेधसे विधानाय मदस्य कारनायेष्टे। कीदृश इन्दुः। दक्षः प्रवृद्धो बलहेतुर्वा विश्वायुर्विश्वैः सर्वेरेतव्यः प्राप्तव्यः। यद्वा। विश्वेषामायुर्जीवनहेतुः। अथव आयुरित्यन्ननाम। सर्वैश्चरुपुरोडाशादिभिरन्नैर्हविर्भिरुपेतः॥१॥