मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४४, ऋक् २

संहिता

अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते ।
अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥

पदपाठः

अ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते ।
अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥

सायणभाष्यम्

आस्मासु स्तोतृषु काव्यः स्तुत्योऽयमिन्द्रः ऋभिर्दीप्तः सन्दास्व्वते दानयुक्ताय यजमानाय वज्रः शत्रूणां वर्जको भवति। यद्वा। दास्वत इति षष्ठ्यर्थे चतुर्थी। अस्मासु दास्वते दानवत इन्द्रस्य वज्रः कुलिश रुभुरुरु भासमानो भवति। अपि चायमूर्ध्वक्रुसनमुद्गततैक्ष्ण्यमेतत्संज्ञम् वा यामायनमृषिं मदं स्तोतारं बिभर्ति। पोषयति। तथर्भुर्न सौधन्वनः। पुत्राणामाद्य ऋभुः। स इव कृत्व्यं कर्मणां कर्तारं अत एव मदं मोदयितारं यजमानं बिभर्ति॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः