मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४४, ऋक् ४

संहिता

यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् ।
श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥

पदपाठः

यम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् ।
श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥

सायणभाष्यम्

श्येनस्य तार्क्ष्यस्य पुत्रस्तनयः सुपर्णो यं सोमं परावतह् परागताद्दूराद्द्युलोकादाधरत् आहरत्। कीदृशम् । शतचक्रम्। शतमिति बहुनाम। बहुधनस्य कर्तारम्। मूलविभुजादित्वात्कप्रत्पयः। पा. ३-२-५-२। यद्वा। शतकरणसाधनम्। बहुयागनिष्पादनमित्यर्थः। घञर्थे कविधानम्। पा. ३-३-५८-४। इति कप्रत्ययः। कृञादीनां के। का. ६-१-१२-१। अह गतौ। अह्यो गन्तव्यो वर्तनिर्मार्गभुतः। एना वय इति वक्ष्यमाणेनैकवाक्यता॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः