मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४४, ऋक् ५

संहिता

यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः ।
ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑ ॥

पदपाठः

यम् । ते॒ । श्ये॒नः । चारु॑म् । अ॒वृ॒कम् । प॒दा । आ । अभ॑रत् । अ॒रु॒णम् । मा॒नम् । अन्ध॑सः ।
ए॒ना । वयः॑ । वि । ता॒रि॒ । आयुः॑ । जी॒वसे॑ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता॑ ॥

सायणभाष्यम्

हे इन्द्र ते तुभ्यम् त्वदर्थं श्येनः सुपर्नः पक्षिराड्यम् सोमं पदा। वचन व्यत्ययः। पद्भ्यामाभरत्। दिवं सुपर्णो गत्वाय सोमं वज्रिण आरभत्। ऋ. ८-१००-८। इति निगमान्तरम्। कीदृशम् । चरुं शोभनं अवृकं बाधकरहितं अरुणमरोचमानमरुणवर्णं वा अन्धसोऽन्नस्य मानं यागद्वार निर्मातरम्। एनैतेनानेन सोमेन तुभ्यं दीयमानेन वयोऽन्नम् जीव्से जीवनायायुर्जीवितं च वि तारि। प्रादायि। तथैनैतेनैव सोमेन बन्धुता बन्धुसमूहो जागर। जाग्रत्प्रबुद्धः सन्वर्तते। जागतेर्लिटि छन्दसि वेति वक्तव्यम्। पा. ६-१-८-१। इति द्विर्वचनाभावः॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः