मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४५, ऋक् ३

संहिता

उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥

पदपाठः

उत्ऽत॑रा । अ॒हम् । उ॒त्ऽत॒रे॒ । उत्ऽत॑रा । इत् । उत्ऽत॑राभ्यः ।
अथ॑ । स॒ऽपत्नी॑ । या । मम॑ । अध॑रा । सा । अध॑राभ्यः ॥

सायणभाष्यम्

हे उत्तर उत्कृष्टतरे पाठे अहमुत्तरोत्कृष्टतरा भूयासम्। उत्तराभ्यो लोके या उत्कृष्टतराः सन्ति ताभ्योऽप्यहमुत्तरोत्कृष्टतरैव त्वत्प्रसादाद्भवेयम्। अथाननतरं मम या सपत्नी साधराभ्यो निकृष्टाभ्योऽप्यधरा निकृष्टतरा भवतु॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः