मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४५, ऋक् ५

संहिता

अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः ।
उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं॑ मे सहावहै ॥

पदपाठः

अ॒हम् । अ॒स्मि॒ । सह॑माना । अथ॑ । त्वम् । अ॒सि॒ । स॒स॒हिः ।
उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वी । स॒ऽपत्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥

सायणभाष्यम्

हे ओषधि अहं त्वत्प्रसादात्सहमानास्मि। सपत्न्या अभिभवित्री भवामि। अथापि च त्वमपि सासहिरसि। तस्या भिभवित्री भवसि। आवामुभे अपि सहस्वती अभिभवित्र्यौ भूत्वी भूत्वा मे मम सपत्नीं सहावहै। अभिभवाम॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः