मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४६, ऋक् १

संहिता

अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि ।
क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ॥

पदपाठः

अर॑ण्यानि । अर॑ण्यानि । अ॒सौ । या । प्रऽइ॑व । नश्य॑सि ।
क॒था । ग्राम॑म् । न । पृ॒च्छ॒सि॒ । न । त्वा॒ । भीःऽइ॑व । वि॒न्द॒तीँ३ ॥

सायणभाष्यम्

अरण्यानीति षडृचमष्टादशम् सूक्तमिरंमदपुत्रस्य देवमुनेरार्षम्। महदरण्यमरण्यानी। तद्देवताकम्। अनुष्तुभम्। तथा चानुक्रान्तम्। अरण्यान्यैरम्मदोदेवमुनिररण्यानीं तुष्टावेति। गतो विनियोगः॥

हे अरण्यानि। अरण्यस्य पालयित्री काचिदधिदेवतारन्यानीति नैरुक्ताः। वैयाकरणास्तु हिमारण्ययोर्महत्त्वे। पा. ४-१-४९-१। इत्यरण्यस्य महत्त्वे ङीषं स्मरन्ति। अरण्याधिदेवते अरण्यानि कान्ताराणि प्रति यासौ त्वं प्रेव नश्यसि। इवः सम्प्रत्यर्थे। नशतिः प्राप्तिकर्मा। अत्र व्यत्ययेन श्यन्। सम्प्रति रक्षनाय प्राप्नोषि। यद्वा। निर्जने देशे वर्तमानत्वान्नष्टेव प्रतीयसे। सा त्वं कथा कथं ग्रामं न पृच्छसि। निर्जनेऽरण्ये कथं रमसे। नूनं त्वा त्वां भीर्भयं न विन्दति। न लभते किम्। वितर्के प्लुतः। इवः सम्प्रत्यर्थे परिभयार्थे वा। अत्र निरुक्तम्। अरण्यान्यरण्यस्य पत्न्यरण्यमपार्णं भवति ग्रामादरमणं भवतिति वा। अरण्यानीत्येनामामन्त्रयते। यासावरण्यानि वनानि पराचीव नश्यसि कथं ग्रामं न पृच्छसि न त्वा भीर्विन्दतीवेतीवः परिभयार्थे वा। नि. ९-३०। इति॥१॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः