मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४६, ऋक् २

संहिता

वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः ।
आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥

पदपाठः

वृ॒ष॒ऽर॒वाय॑ । वद॑ते । यत् । उ॒प॒ऽअव॑ति । चि॒च्चि॒कः ।
आ॒घा॒टिभिः॑ऽइव । धा॒वय॑न् । अ॒र॒ण्या॒निः । म॒ही॒य॒ते॒ ॥

सायणभाष्यम्

विषारवाय। वृषा सेचनसमर्थो रवः शब्दो यस्य सूक्ष्मजन्तुविशेषस्य झिल्याख्यस्य स तथोक्तः। कटुकशब्दवानित्यर्थः। तस्मै वृषारवाख्याय वदते चीची शब्दं कुर्वते चिच्चिकश्चिचीशब्दं कुर्वन्नन्यो जन्तुर्यद्यदोपावति वृषारवाय स्वशब्दस्य प्रत्युत्तरतूपेण चीचीशब्दकरेणोपगच्छति। उपेत्य पालयति वा। तत्र दृष्टान्तः। आघाटिभिरिव। अघाटयो घाटलिकाः काण्डवीणाः। ताभिर्धावयन्निषादादिसप्तस्वराणि शोधयन्गायक इव। तदारण्यानिः सारण्यानी महीयते। पूज्यते। इन्द्रवरुणेत्यादिना ङेष्। पा. ४-१-४९। तत्सन्नियोगेनानुगागमः। छान्दसो ह्रस्वः। अत एव हल्ङ्यादिसुलोपाभावः॥२॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः