उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते ।
उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥
उ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव । दृ॒श्य॒ते॒ ।
उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥
उतापि च गाव इव गवयाद्या मृगा अस्यामरण्यान्यामदन्ति। तृणादिकं भक्षयन्ति। उतापि च लतागुल्मादिकं वेश्मेव गृहमिव दृश्यते। उतो अपि चारण्यानिरियमरण्यानी सायं सायंकाले। इवः सम्प्रत्यर्थे। सम्प्रति शकटीः शकटान् दार्वाद्याहरणायागतान्सर्जयति। विसर्जयति। यद्वा। शकटीः सर्जतीव दृश्यते। अहनि महदरण्यं शकटीभिः प्राप्य सर्वे जना अरण्ये क्षतं काष्ठादिकं शकटीष्वध्यारोप्य सायंकाले तस्मान्निर्गच्छन्ति। तदभिप्रायेणेदं वचनम्॥३॥