मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४८, ऋक् ३

संहिता

अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्र॑ः सुम॒तिं च॑का॒नः ।
ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥

पदपाठः

अ॒र्यः । वा॒ । गिरः॑ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी॑णाम् । विप्रः॑ । सु॒ऽम॒तिम् । च॒का॒नः ।
ते । स्या॒म॒ । ये । र॒णय॑न्त । सोमैः॑ । ए॒ना । उ॒त । तुभ्य॑म् । र॒थ॒ऽओ॒ळ्ह॒ । भ॒क्षैः ॥

सायणभाष्यम्

विप्रो मेधाव्यृषीणां मन्त्रदर्शिनां सुमतिं सुष्तुतिं चकानः कामयमानो विद्वाञ्जानन्नर्यो वा स्वामी च भवन् हे इन्द्र ईदृशस्त्वं गिरः स्तोतॄन् स्तुतीर्वाभ्यर्च। सम्यक्स्तुतमित्यभिपूजय। अपि च ते वयं स्याम भवेम ये सोमैस्त्वां रणयन्त रमयन्ति। उतापि च हे रथोळ्ह रथैरभ्युह्यमान। आ ऊढ ओढः। रथेन ओढो रथोढः। ओमाङोश्च। पा. ६-१-९५। इति पररूपम्। ईदृशेन्द्र भक्षैर्भक्षणीयैश्वरुपुरोडाशादिभिः सार्धमेनेमानि स्तोत्राणि तुभ्यं त्वदर्थं क्रियन्ते॥३॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः