मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५०, ऋक् ४

संहिता

अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑य॒ः समी॑धिरे ।
अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥

पदपाठः

अ॒ग्निः । दे॒वः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः । अ॒ग्निम् । म॒नु॒ष्याः॑ । ऋष॑यः । सम् । ई॒धि॒रे॒ ।
अ॒ग्निम् । म॒हः । धन॑ऽसातौ । अ॒हम् । हु॒वे॒ । मृ॒ळी॒कम् । धन॑ऽसातये ॥

सायणभाष्यम्

देवो दानादिगुणयुक्तोऽग्निर्देवानामन्येषां पुरोहितः पुरस्ताद्धृतोऽभवत्। यद्वा। पुरोहितवद्धितकार्यभवत्। यत एवमतः कारनात्तमेवाग्निमृषयोऽतीन्द्रियार्थदर्शिनो मनुष्या मानवा यजमानाः समीधिरे। सन्दीपयन्ति। अपि च तमग्निं महो महतो धनसातौ धनस्य सम्भजने निमित्तभूतेऽहं हुवे। आह्वये। विशेषणसापेक्षस्यापि धनशब्दस्य छान्दसः समासः। यद्वा। महतो यागस्य कर्तारमग्निमित्यर्थः। धनस्य सातये धनलाभार्थं मृळीकं सुखमेतत्संज्ञं वा मां सोऽग्निः करोत्वित्यर्थः॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः