मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५२, ऋक् ३

संहिता

वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥

पदपाठः

वि । रक्षः॑ । वि । मृधः॑ । ज॒हि॒ । वि । वृ॒त्रस्य॑ । हनू॒ इति॑ । रु॒ज॒ ।
वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒मित्र॑स्य । अ॒भि॒ऽदास॑तः ॥

सायणभाष्यम्

हे इन्द्र रक्षो राक्षसजातं वि जहि। विनाशय। मृधः सङ्ग्रामकारिणः शत्रूंश्च वि जहि। वृत्रस्यावरकस्यासुरस्य हनू कपोलप्रान्तौ वि रुज। विशेषेण भग्नौ कुरु। हे वृत्रहन्निन्द्र अभिदासतोऽस्मानुपक्शयतो मित्रस्य शत्रोर्मन्युं क्रोधमपि विनाशय॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०