मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५२, ऋक् ५

संहिता

अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम् ।
वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धम् ॥

पदपाठः

अप॑ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः॑ । अप॑ । जिज्या॑सतः । व॒धम् ।
वि । म॒न्योः । शर्म॑ । य॒च्छ॒ । वरी॑यः । य॒व॒य॒ । व॒धम् ॥

सायणभाष्यम्

हे इन्द्र द्विषतो द्वेष्टुह् शत्रोर्मनोऽप जहि। जिज्यासतोऽस्माकं वयोहानिमिच्छतश्च वधं हननसाधनमायुधं चाप जहि। मन्योः शत्रुसम्बन्धिनः क्रोधाच्चास्मान्रक्ष। वरीय उरुतरं शर्म सुखं विशेषेन यच्छा। देहि। वधं शत्रुकृतम् हननं च यवय। अस्मत्तः पृथक्कुरु॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०