अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो॑ः पा॒रे अ॑पूरु॒षम् ।
तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥
अ॒दः । यत् । दारु॑ । प्लव॑ते । सिन्धोः॑ । पा॒रे । अ॒पु॒रु॒षम् ।
तत् । आ । र॒भ॒स्व॒ । दु॒र्ह॒नो॒ इति॑ दुःऽहनो । तेन॑ । ग॒च्छ॒ । प॒रः॒ऽत॒रम् ॥
अदो विप्रकृष्टदेशे वर्तमानमपूरुषं निर्मात्रा पुरुषेण रहितं यद्दारुदारुमयं पुरुषोत्तमाख्यं देवताशरीरं सिन्धोः पारे समुद्रतीरे प्लवते जलस्योपरि वर्तते तद्दारु हे दुर्हणो दुःखेन हननीय केनापि हन्तुमशक्य हे स्तोतः आ रभस्व। आलम्बस्व। उपास्स्वेत्यर्थः। तेन दारुमयेण देवेनोपास्यमानेन परस्तरमतिशयेन तरणीयमुत्कृष्टं वैष्णवं लोकं गच्छ। अपर अह। हे दुर्हणो दुःखेन हननीये दुष्टहनुयुक्ते वा हे अलक्ष्मि सिन्धोः पारे समुद्रतीरप्रान्तेऽपूरुषं पुरुषैर्जनैर्वियुक्तमदोऽस्मत्तो दूरे देशे वर्तमानं यद्दारु दारुमयी नौः प्लवते तद्दार्वा रभस्व। परिगृहान। गृहीत्वा च तेन दारुणा परस्तरमतिशयेन तरणीयं ब्रह्मणस्पतिना प्रेरिता सती द्वीपान्तरं गच्छा॥३॥